पृष्ठम्:Prabandhaprakasha.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
४५
तद्यथानुश्रूयते । कस्मिंश्चिद् ग्रामे ब्राह्मण एकः प्रतिवसति
स्म । तस्य भवदत्तभवदेवनामानौ द्रौ सूनू अभूताम् । कालेन
तयोर्यायान् भवदत्तो बौद्धसंन्यासिनामुपदेशेन गृहीतक्षपणक-
वेशस्तैरव सार्द्ध गतः, नितरां विरक्तश्चाभूत् ।
एकदा तेषां क्षपणकानामेक: स्वमठाधीशादेशेन प्रामान्तरं
गतः । तत्रैव तस्य भ्रातापि निवसति स्म । स्वभ्रातुरन्तिक
तस्य क्षपणकत्वापादनार्थमुपस्थितः स भ्रात्रात्यन्तं न्यक्कृत:
खलीकृतश्च । एवं विफलमनोरथः स स्वमटं प्रत्यागतोऽखिलं
तत्स्वभ्रातृवृत्तं कुलाधीशाय निवेदितवान् । उपहसितश्चासा-
वतिशयेन तद्भ्रातृगणापरैः सवै : क्षपणकैः ।
अथ गोष्ठीप्रसङ्गेन भवदत्तस्तैर भिहितः । किं भवानपि
स्वभ्रातुः क्षपणकत्वापादन एवमेवासमर्थ इति । तेनोक्तम् ।
नाहमशक्तः । प्रतिजाने च यदवश्यमेव स्वभ्रातरं क्षपणकता-
मानेण्यामीति |
तत एकदा कुलाधीशेन सह पर्यटन् भवदत्तो यात्राप्रसङ्गेन
स्वाभिजनग्रामसमीपमेवाध्युषितः । तदादेशेन च प्रतिज्ञातार्थ-
सम्पादने दृढमतिर्निजभ्रातृभवनं तस्य साक्षात्करणाय गतवान् |
तत्र च तस्य विवाहस्तस्मिन्नेव वासरे निर्वृत्त आसीत् । अथा-
स्यानुजो भवदेवः स्वभ्रातरं समागतमालोच्य यथोचितोत्थाना-
दिशिष्टाचारै: सत्कृतवान् । प्रस्थितं च तमनुसरन् बहुदूरं
यावन्मठाधीशान्तिकमुपस्थितः । प्रत्यक्षतः सफलमनोरथश्च
भवदत्त: कुलाधीशेन पृष्टः । किमयमानीत: क्षपणकताग्रह-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५३&oldid=355351" इत्यस्माद् प्रतिप्राप्तम्