पृष्ठम्:Prabandhaprakasha.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४
प्रबन्धप्रकाश:
प्रत्यक्ष द्विषः" इतिश्रुत्यनुरूपं दूरदर्शिनः सन्तो वास्तव स्वार्थ-
मात्मकल्याणरूप निःश्रेयसापरपर्याय समीहमाना लोकपर-
लोकसहाय' परोपकारमेवाश्रयन्ते ।
अत एव च
अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ||
इति समुज्जृम्भतेऽमृतमयी वागिय परोपकारस्य सर्वधर्मा-
पेक्षया श्रेष्ठ्य प्रतिपादयन्ती |
तस्मात्सर्वे: समाश्रयणीयोऽयं धर्मो य एष परोपकारी नाम |
का हि पुगणना तेषां येऽन्यशिक्षाविचक्षणाः ।
ये स्वं शिक्षयितु दक्षास्तेषां पुगणना नृणाम् ||
इह खलु विचित्रचरित्रचित्रिते जगति केचिदेव विरला
एतादृशा नरपुङ्गवा ये यदपि किश्चित्परस्योपदिशन्ति स्वय
मपि तत्सम्यगाचरन्ति । परमसंख्या एव ते समालोच्यन्ते ये
संसरस्वन्यत्र वा वावदूका नितरामेव सत्पुरुषान्गर्हयन्तो नाना-
विधशब्दाडम्बरै: परेभ्यो धर्मोपदेशं वितरन्ति । तथापि स्वकीया
तेषामवस्थातीव गर्हणीया भवति । तेषां स्वकीयाचरणेषु स
उपदेशोंऽशमात्रमपि न दृश्यते । एतादृशानेवालोचयतो मनसि
नितरी कदर्शनामनुभवतः कस्यापि कवेर्भणितिरियम् -
का हि पुङ्गणना तेषामित्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५२&oldid=355350" इत्यस्माद् प्रतिप्राप्तम्