पृष्ठम्:Prabandhaprakasha.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२
प्रबन्धप्रकाशः
एवमाकर्ण्य तस्य वाग्जालं भूप: प्रथमन्तु सर्वमेतज्जाड्य-
हेतुकं वा ईर्ष्याकारित वा इत्येवामन्यत । परं यदानेकैरधि-
कारिभिः स्त्रवंशसम्भूतैरपि च बन्धुभिर्बहुवारमेवं भणितस्तदा
कश्चित्सन्देहलवस्तस्मिन् विषये तस्य मनसि प्रादुभूतः ।
सत्यमेवाच्यते-
सुजनानामपि हृदय पिशुनपरिष्वङ्गलितमिह भवति ।
पवन: परागवाही रथ्यासु वहन् रजस्वला भवति ||
एवमेव गच्छति काले कस्मिंश्चिद् वासरे सततमेवं मिथ्या-
वचेोभिः स्वकर्णमापूरयतस्तानखिलान् कर्णेजपान समाहूय---
" नित्यं युष्माकं वचांसि शृण्वन्नहं सजातेोऽस्मि खिन्नचेताः । अद्य
तद्गृहमेत्य सर्वेषामभिमुखं तामिन्द्रजाल मञ्जूषा मीक्षिष्ये” इत्येव
मब्रवीद् भूपतिः । जाता: सर्वेऽपि सज्जा: । राजा च समादाय
तानखिलान् साकमात्मना समुपस्थितस्तस्यामात्यम्य गेहम् । स च
बहुमानपुरस्सरं धन्यं मन्यः स्वागतमतिमात्रं महीपतेरन्वतिष्ठत् ।
अथ तेन सत्कृते समुपविष्टे च बहुमूल्यासनोपरि राजनि,
अन्येषु च यथायोग्यमासनमधिष्ठितेषु तयो राजमन्त्रिणोरंव-
मुक्तिप्रत्युक्तिरूप: संवाद: संववृते ।
-
राजा–आर्य ! साम्प्रतमेव मया सार्द्धमास्थानमण्डपमेतु
भवान् । अस्ति कस्मिंश्चिद् विषये मन्त्रणीयम् |
मन्त्री - देव ! प्रसीदति चेद्भवांस्तर्हि रहसि किश्चित् क्षणं
निर्धार्य भवतां पुरस्तादुपस्थिता भवामि |
[ सर्वेऽप्येतदाकर्ण्य साभिप्रायं परस्परमिङ्गित विदधुः । ]

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४०&oldid=355337" इत्यस्माद् प्रतिप्राप्तम्