पृष्ठम्:Prabandhaprakasha.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१
भावेन तत्प्रवणतया चानुष्ठानेन समधत्त पदमाशु स प्रजाजन-
चेतः शिलापट्टषु ।
प्रबन्धप्रकाश:
राज्ञोऽन्ये ऽधिकारिणः संवीक्ष्य तस्याभ्युन्नतिं दिने दिने
चाभिवृद्धिमीर्ष्याकलुषितचेतसो ऽचिन्तयन् –
एवं गुरुपदमारूढो यदस्मानपि शास्तीति ।
अयं दरिद्र
9
आश्चर्यम्, अपरित्याज्यो हि दुःस्वभावो दुर्मतीनाम् !
ते हि तद्विरुद्धं कतु मुद्युक्ता मिथो मन्त्रयाञ्चक्रिरे । अन्त-
तस्तेषामेको रहसि कदाचन लब्धावसरो नरपतिमेवमुदीरया-
मास "क्षमापते ! देव ! अयमतीव मायिको विप्रः । इन्द्र-
जालेन ह्यनेन वशीकृतो भवान् । एवं हि जनप्रवादः - यद्भवद-
भिमुख मागमनापूर्वमयं नियतमेव निजगेहप्रकोष्ठे प्रविशति ।
स च सततमनपावृतद्वारको वर्तते । तत्रास्ते पुनरेका रजतमयो
लध्वी मञ्जूषा | इन्द्रजालमयी च सा । तामुद्घाट्य किश्चि.
त्तान्त्रिक कृत्य मनुष्ठायैवाय भवतामभिमुखमायाति - इति ।
किञ्च न भवति यद्यय' मायावी, कथङ्कारमन्यथा झटित्येवा-
देव ! समवहितैर्भाव्य भवद्भिः । नहि
जात्वेतादृशो दरिद्रो विशिष्टं कारणमन्तरेण सहसैतामवस्था-
माप्तुं शक्नोति । नूनमेतस्या मञ्जूषाया एव विलसित
यद्भवानप्येतद्वश्यः समजनि झटिव्येवायममात्यपदमारूढः,
मात्यपदमारूढः
P
न ज्ञायते किममे भावि ? अतो मायामञ्जूषां प्रति सततमेव
सावधानस्तिष्ठतु भवान्” इति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३९&oldid=355336" इत्यस्माद् प्रतिप्राप्तम्