पृष्ठम्:Prabandhaprakasha.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
अथ महीपतिः प्रधानामात्यमादिदेश -- "अद्यप्रभृति इम-
महं स्वपरिषद: सभास्तारपदे नियोजयामि । भवद्भिश्चास्य
निखिला आवश्यकता : सम्पूरणीयाः” इति । अचिरादेव नृपा-
देशमन्वतिष्ठत् सचिवः । समुपस्थितो भार्या चिकित्सितु
तद्गेहेऽगदङ्कारः । सा चाचिरादेव निरामयत्वं भेजे । स चापि
मनीषी विप्रो नियमेन राजपरिषदं सभास्तारपदेनाल चकार ।
ततः प्रभृति न खलु कदाचित् सोऽदृश्यत पूर्वमिव मलिनाम्बरः ।
परमासीदच्छश्लद्गणवासाः । तथापि स पूर्ववदेव स्वाध्याय-
निरतोऽभूत् । राजपरिषत्कार्यालब्धावकाशः शास्त्रचिन्तन
एवासीत् सतत व्यासक्तमनाः ।
स हि क्षमायां क्षमया, धैर्य च हिमवता सदृश: परम-
भागवत: सर्वेषामचिरादेव समादरभाजनं बभूव | महीपतिश्च
सर्वदेव समादरेण तं सुबहु सत्कृतवान् | तस्य गेहिन्यपि यथा
पूर्व दारिद्रयावस्थायां देवभावनया त समर्चयामास, तथैव
तदानों सम्पत्तिसद्भावेऽपिता महात्मभावनया सम्भावयामास |
ननमैश्वर्यसम्पत्तावपि पूर्ववदेव सहजसरलस्यापरिवति तहृन्म-
स्तिष्कस्य तस्य जीवनयात्रायां केवलं शरीरवसनेष्वेव समदृश्यत
परिवृत्तिलवो, न पुनराचारं स्वभावे वा । तथा खल्वेषोऽत्यु-
दारैः स्वगुणैर्नरपतर्मनो जग्राह यत् ताणिपतिरेतस्य निखिल-
विद्यासु दाक्षिण्यं, सकलकलासु च वैचक्षण्यमालोक्य निरति-
शय प्रसन्न उत्तरोत्तरं पदे स्थापयन् क्रमेणामात्यपदे तं नियोजि
तवान् | समासाद्य तमधिकारं सततं स्वकर्तव्यस्य कर्मण: सत्य-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३८&oldid=355335" इत्यस्माद् प्रतिप्राप्तम्