पृष्ठम्:Prabandhaprakasha.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८
तमात्मसन्निधौ सादरं समाहूय प्रावोचत् – “को भवान् ? कि-
-
प्रयोजन चात्र मदन्ति समागमनम् ? सर्वोऽपि स्वमनोनुरूप.
मस्मत्पुरो निवेद्य स्ववाञ्छितं लब्धवान् परं नहि भवता
किमपि समुदीरितं साम्प्रतं यावत् । किमत्र निदानम् ?" इति ।
,
·
एवमनुयुक्ता नरपतिपुङ्गवेन - "विदधातु परेशोऽरिष्टताति
भवताम् । देव! वसुन्धरापते ! अहमतिदरिद्रः परं विद्वान्,
भवतां राज्याधिवासी ब्राह्मण, पुस्तकान्येव मे धनम्, निजभार्या -
साहि में प्राणेभ्योऽपि
सार्द्ध तथा सानन्दं
प्रबन्धप्रकाशः
हेतोश्चात्रागतं वेत्तु भवान् माम् ।
प्रेयसी धर्माचारवती सती भार्या ।
जीवनकालकला अतिवाहयता निजपुस्तकस्वाध्याये दिवानिशं
रममाणस्य धर्म्या साध्वीमवस्थां परिषेवमाणस्य नाद्य यावत्
कदाचिदण्यवकाशं लब्धवती मे मानसे वित्तषणा लौकिक-
सुखैषणा वा । गतवासरात् सा तीव्रण कठिनामयेन ग्रस्ता |
नहि मदन्तिके पानभोजनाय किश्चित्, न चाप्यौषधपरिषेवण-
सामर्थ्यम् । अतो भवतां सविधमुपस्थितोऽस्मि । तत: साहाय्य-
दानेन देवा मामनुगृहखातु, स्थापयतु च परलोकेऽपि साम्रा-
ज्यम् । सन्तत पुनर्निजविद्यया बुद्ध्या च भवतः सेवायै
सन्नद्धी भविष्यामि । देवः प्रमाणम् ।" - - इत्येवं स
सविनयमावेद्य विरराम |
क्षितिपतिस्तस्य सूनृतां वाचं निशम्य तदानने दृशं
पातयामास । प्रख्यापयतः स्म हि तस्य चक्षुषी अनुपसं
तळेशारद्यम् ।
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३७&oldid=355334" इत्यस्माद् प्रतिप्राप्तम्