पृष्ठम्:Prabandhaprakasha.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
स्तांस्तोषयामास । शुभेऽहनि तस्मिन् सुबहूनभिनन्दयन्ननेकेषा-
माशिषां धन्यवादानाच भाजनं बभूव भूपः ।
नातिदूरे नृपासनान्मलिनाम्बरः कश्चिदेको मानवो नरपते-
रानने दत्तदृष्टिस्तस्थौ । सोऽपि महीपतेरभिमुखमावेदयितु
साधारण समिती किञ्चन समागात; परमास्थानमण्डपस्यादृष्ट-
पूर्वामनेकाभरण परिच्छदैर्भास्वरां सुषमासम्पत्तिमवलोक्य चकित
चकिता नैजमावेदनमपि विसस्मार | नहि क्षितिभतृ सविधे
स यात: ; नापि किमपि स प्रार्थितवान् । प्रसङ्गवशाद्धरापतिः
प्रधानामात्यं सम्बोध्य ऊचे - "भद्र ! जगतो यात्रायां सुगमो
निर्वाहाभ्युपाय: कस्मादवगन्तव्यः” इति । प्रधानसचिवः
सानुनयं भक्तिपुरस्सरं चाह -- "देव ! स्त्रियाः" इति ।
--
तत्क्षणमेव सवेशे समासीनस्य तस्याऽनिर्णिक्तवाससोऽपावृ
तमास्यम् । सप्रश्रयं शनैश्वासाववादीत् – “सती पतिव्रता
चेद्वर्तते स्त्रो, यतस्तस्याः सतीत्वाभावे पत्युरापत्परम्परा अवश्यं
भवेयुः” इति । धराधिपतिरप्येतदशृणोत् । मुहुरपि च स
सस्मितमन्वयुक्त महामात्यमेव – “प्रार्य ! संसारे किमत्यधि-
कमुपयुज्यते ?" इति । प्रत्युत्तरितं मन्त्रिणा - "देव! दयापाथो-
निधे ! धनमेवास्मिन् विषयेऽन्यानि वस्तून्यतिशेते” इति ।
-
भूयोऽपि – “धनं चेत्करगतं भवति, मनुजश्च यदि तदुप-
योगरहस्य' वेत्ति | अन्यथा तद्भावाभावी न विशिष्यते” इति
स एव मलिनवासाः शनकै: सान्तस्तोषं प्रौढमुवाच | महीपति-
मतद्वचाभिरतिशयेन तृप्तस्तदभिमुखं सामोदमैचत । अनन्तरं च
२८
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३६&oldid=355333" इत्यस्माद् प्रतिप्राप्तम्