पृष्ठम्:Prabandhaprakasha.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
२७
उत्तमोत्तमां गतिमधिगन्तुमर्हति । सर्वमेतत्समालोच्य जनैः
धैर्यधारणे यत्नो विधेयः ॥
इन्द्रजालमञ्जूषा
महतीमपि श्रियमवाप्य विस्मय:
सुजनो न विस्मरति जातु किञ्चन !
सखल्वासीत् साधारण समितेर्वासरः । प्रधानामात्यप्रमुखा
6
महत्पदमधिष्ठिता लघुपदभाजस्तथान्ये कार्यकर्तारः सर्वेऽप्यास-
न्नुपस्थिताः । निद्दिष्टमासीद् भूभुजा – “अद्यानिवार्य: प्रवेश:
सर्वसाधारणस्य | यः कोऽपि समेत्यास्थानमण्डपमभिक्षोणिपतिं
स्वमनोऽनुरूपमा वेदयतु वाछितम् । नहि कश्चन परिचारको-
ऽधिकरणमण्डपं प्रविशन्तमवरोधु क्षमः । सर्वोऽपि स्वमन-
स्तापमभिदधातु । यतो विश त्राणाय प्रकल्पेऽहम्" इति ।
पराभूतानेकनृपतिमण्डलपरिवृतस्तारागौरिव
भगवान्
राकापति:, गोमेदहीर कादिर नकलापगुम्फितमध्यास्ते स्म हैम-
मासनमतुलवीर्यो महामतिर्महीपतिः । दक्षिणपाश्र्व प्रधाना-
मात्यो वामपाश्र्वे च चमूपतिरासन्दीमधितष्ठतुः । अन्येऽपि
सानुक्रमं स्वं स्वमासनं भेजिरे ।
यथावार सर्वेऽपि प्रार्थिनो महीभुज पुरी निजावेदनमु
दोरयामासुः । स च सस्मितमनायासव यथार्थ न्यायमनुतिष्टं
(
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३५&oldid=355332" इत्यस्माद् प्रतिप्राप्तम्