पृष्ठम्:Prabandhaprakasha.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Eve
प्रबन्धप्रकाश:
एवमेवान्यान्येषु मानवीयव्यापारेषु सिद्धिधैर्याधीनैव । p
अद्यत्वे प्रसिद्धानामितिहासपुराणेषु च वर्णितानां लोकोत्तर-
चरितानां महापुरुषाणां यन्माहात्म्यं वस्तुतस्तद्रहस्यमेतद् धैर्य-
मेव । धैर्येणैव ते विघ्नराशीन् समुत्तीर्य दुरधिगममभीष्टमा
साद्य लोकेषु लोकोत्तरां ख्यातिमासादितवन्तः ।
ततश्च धैर्यमन्तरेण प्रथमं तु कस्मिन्नपि व्यापारे विशेषतश्च
परिश्रमापेक्षावति प्रवृत्तिरेव दुर्लभा स्यात् । प्रवृत्तावपि स्वभा
वतोऽनायासेनैवोपस्थितासु बाधासु तासां वारणप्रयासोऽभी-
ष्टार्थादविरतिश्च नहि कथमपि सम्भाव्यते ।
कि बहुना । धैर्येणैव मानव: सत्स्वपि महत्सूपरोधका-
रणेषु निजकर्तव्यपराङ्मुखो न भवति । प्राणैरपि सम्पद्येत
वियोगः, परं नैव साहसं परित्यजति । सपदि राजलक्ष्म्या-
मपि विलेतुमुपस्थितायां सङ्कटाकीर्णमपि स्वकर्तव्यमेव कर्म
सर्वश्रेयस्करं मन्यते ।
तद्यथा श्रीरामचन्द्रादयो नृपचन्द्रा धैर्येणैव सहस्रश आप-
त्स्वापतितासु स्वाभिप्रेतानां रावणवधादीनामनन्यकर्तव्यानां
कर्मणामन्तमवापुः । अन्यै सोढुमशक्या अप्युपस्थिता आपद:
सोढा :, परं नैव कर्तव्यपराङ्मुखा बभूवुः । तदेतदखिलं धैर्य-
माहात्म्यमेव ।
s
तत एतद् धैर्य सकल श्रेय: सम्पादकम् । ऐहिकामुष्मिक
सर्वविधं सुखं धैर्येण मानवा आसादयितुं शक्नुवन्ति । एतदेव
धर्मानुष्ठाने महत्साधनम् । धैर्येणैव मनुजो धर्मपथादविच्युत

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३४&oldid=355331" इत्यस्माद् प्रतिप्राप्तम्