पृष्ठम्:Prabandhaprakasha.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५
प्रबन्धप्रकाशः
यो यमर्थ प्रार्थयते यदर्थ घटतेऽपि च ।
अवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ॥
इत्युक्त्यनुकूलमाचरन्तो बहुल विघ्नस्यापि प्रारब्धस्य सङ्कल्पितस्य
वा कार्यस्यान्तं गच्छन्ति । ये पुनधैर्येण रहिताः प्रथमं तु ते
उत्थायोत्थाय लोगन्ते दरिद्राणां मनोरथा: ।
इत्यनुसारं विघ्नभयेन किश्चित् कार्यमेव नारभन्ते। आरब्धकार्या
वा स्वल्पेऽप्यन्तराये समुपस्थिते तस्माद्विरमन्ति । तथा चोक्तम्-
प्रारभ्यते न खलु विघ्नभयेन नीचै:
प्रारभ्य विघ्नविहता विरमन्ति मध्या: ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारभ्य तूत्तमजना न परित्यजन्ति || इति ।
धैर्यमाश्रयैव हि एको निर्धन: कृषीवलो दुःसहसहस्र किर-
गोष्णतापं, धारासारेणा पतन्तीं वृष्टि, शैत्यमुष्णत्वं चाविग-
णय्य रात्रिन्दिवं चिराय कृतभूरिपरिश्रम: कृप्युपयोगिसामग्री-
संयोजनाय स्वसर्वस्वमपि विक्रीय बीजानि क्षेत्र उप्त्वा सफल-
मनोरथो भवितुमर्हति । अनेकवार च दैवदुवि पाकेण नष्टे,
ध्वपि शस्यक्षेत्रेषु स्वव्यापारान्नहि निवर्तते ।
एवमेव धैर्यसहाय ऐवैको विद्यार्थी विसृष्टविषयभोगतृष्णा
ब्रह्मचर्यमास्थितः शीतोष्णादिद्वन्द्वतितिन्नुभूत्वा चिरकाले नैवा
धिगम्यां विद्यामुद्दिश्य अविरतमध्ययनतत्परे। भवति । नैक-
वारमनुत्तीर्ण परीक्षोऽन्यथा वा कथञ्चिदसफलमनोरथा नैव
स्वनिश्चिताद्दश्यसम्पादनाद्विरमति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३३&oldid=355330" इत्यस्माद् प्रतिप्राप्तम्