पृष्ठम्:Prabandhaprakasha.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४
प्रबन्धप्रकाश:
ततश्चैतन्नियमानुसारेण सङ्कटेषु समुपस्थितेषु मनुजो धैर्य-
मेवावलम्ब्य-
-
कदर्शितस्यापि हि धैर्यवृत्ते-
र्न शक्यते धैर्यगुणः प्रमाष्टुम् ।
अधोमुखस्यापि कृतस्य वह्न-
नधिः शिखा यान्ति कदाचिदेव ||
छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।
विमृशन्त: सन्तः सन्तप्यन्ते न ते विपदा ||
त्याज्यं न धैर्य विधुरेऽपिकाले
इति
धैर्यात्कदाचित्स्थितिमाप्नुयात्सः ।
Sharm
जाते समुद्रोऽपि हि पोतभङ्ग
सांयात्रिको वाञ्छति ततुमेव ||

इत्यादिवचोऽनुरूपमहतोत्साहो दुःखोदधे : पारङ्गन्तु पारयति
परं सङ्कटेषु समुपस्थितेष्वेव धैर्यस्यावश्यकतेति न मन्त
व्यम् । प्रत्येकाभीप्सितकार्यस्य विशेषतश्च विशेष परिश्रमापेक्षा-
वत: संपादनाय तत्सिद्धौ विविधविघ्नबाधाबाधनायापि च
धैर्यस्य महत्युपयोगिता । प्रत्येक कार्यारम्भात्पूर्व हि तस्य
विचारस्थ प्रादुर्भावोऽस्माकं मनःस्वावश्यक एव । विचारस्यै-
वान्तःसमुद्भूतस्य कालान्तरेगा कार्यरूपेण परिणतिर्भवति ।
कस्यापि विचारस्य कार्यरूपेण परिणत्यै च प्रायोऽनवरतपरिश्रमस्य
नानाविधसामग्रोसंयोजनस्य नैक विधप्रत्यूह निवारणस्य चापेक्षा
भवति । सर्व चैतद्धैर्येव साभ्यम् । धैर्यधना हि मानवाः
@

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३२&oldid=355329" इत्यस्माद् प्रतिप्राप्तम्