पृष्ठम्:Prabandhaprakasha.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
अन्योन्यं प्रतिपक्षसंह तिमिमां लोकस्थितिं बोधय
२३
न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥
अपि च -
अवश्यंभाविनो भावा भवन्ति महतामपि ।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ।।
किश्च-
पुरुष: पौरुषं तावद्यावद्द व तु सम्मुखम् ।
विपरीतगते देवे पुरुषो न च पौरुषम् ||
तदत्र स्मर्यतामखिलमेतद्विधिविलसितमिति पश्यतः कस्यापि
कवेरिदं सुभाषितम्-
शुभं च विदधात्यशुभं च जन्तारित्यादि ||
धैर्यम्
इह खल्वव्याहतपरिवृत्तिशालिनि जगति कस्यापि सर्वदे
कावस्थायामेवावस्थितिर्नितरामसम्भवा । रात्रिदिवसयोरिव
सुखदुःखयो : पर्यायेण समुपस्थितिः कस्याविदिता । महाशक्ति-
सम्पन्ना लोकोत्तर प्रभावसंयुता अपि सुखदुःखपर्याय नियममति-
क्रमितुमशक्का: । तथा चोच्यते-
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ।
किञ्च । कस्यात्यन्तं सुखमुपनत दुःखमेकान्ततो वा
4
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण | इति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३१&oldid=355328" इत्यस्माद् प्रतिप्राप्तम्