पृष्ठम्:Prabandhaprakasha.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२
प्रबन्धप्रकाशः
मासाद्य नितरां शुभमन्वभूत् । तदनन्तरं च सहसैव स्वसम्पत्ति-
विरहिता महत्या दुःखश्रेण्या सङ्गतोऽरण्यादरण्यानीं भ्राम्यं
श्चिराय क्लेशमतिशयमासिषेवे। मुहुरपि च तामासाद्य
पूर्ववदेव सुखं भेजे। पाण्डवानां च महानृपतिसूनूनामपि
क्रमेण शुभाशुभसमागमोऽतिरोहित एव ।
तदेतादृशं शुभाशुभयोरस्थैर्य सहसैव च पुरुषकारादि
साक्षात्कारणमन्तरेणैव तयोरुपस्थितिः किं कृते इति विचारे काचि-
ल्लोकोत्तरा शक्तिरेव पृष्ठत इवागत्य कार्यनिर्वाहिकेति सपदि
मनसि समायाति । सैव लोकोत्तरा शक्तिर्भवितव्यता विधि
र्नियतिर्दैवमित्यादिशब्दर भिधीयते । दृष्टप्रभावापि सा स्वयं
प्रत्यक्षता न दृश्यत इत्यत एव कैश्चिददृष्टनाम्नापि स्मर्यते ।
साचेयं भगवती भवितव्यता देवी महाशक्तिसंपन्ना | एनया
हि समाक्रान्तं समस्तं विश्वम् । भुवनत्रयेऽप्यनवरुद्धमकण्टक-
मस्या: शासनम् । गिरिगुरुगर्तदुर्गमे कान्तारे वा विविध-
व्यालकुलसमाकुले पाताले वा अगाधजलसंचारे सागरेऽपि वा
स्थितो जनो न खलु नास्या दृष्टिगोचरः । न केवलमल्पशक्ति-
युक्ता मानवा अन्येऽवरा: प्राणिन एव वास्या: शासनमनुवर्तन्ते,
किन्तु सर्वमेव जडचेतनात्मकमाब्रह्माण्डं जगदस्या वशे वर्तते 1
तामेनामघटितघटनापटीयसो भगवतों भवितव्यतामेवोद्दि-
श्योक्तं केनापि -
काँश्चित्तुच्छयति प्रपूरयति वा काँश्चिन्नयत्युन्नति
कौश्चित्पातविधी करेराति च पुनः काँश्चिन्नयत्याकुलान् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/३०&oldid=355327" इत्यस्माद् प्रतिप्राप्तम्