पृष्ठम्:Prabandhaprakasha.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
२१
गजभुजङ्गमयोरपि बन्धनं शशिदिवाकरयोग्रहपीडनम् ।
मतिमतां च विलोक्य दरिद्रतां विधिरहा बलवानिति मे मतिः ॥
अपि च -
भग्नाशस्य करण्डपीडिततनाम्लनेन्द्रियस्य क्षुधा
कृत्वाखुवि वरं स्वयं निपतिता नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
लोका: पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ||
तमे तमुत्तरपक्षमाश्रित्यैव कस्यचिद्विपश्चितः सुभाषितमिदम्-
शुभं च विदधात्यशुभं च जन्तोरित्यादि ।
कस्यैतदविदितं यदत्रापातरमणीये क्षणभङ्गुरे संसारेऽस्थिरे
सुखिदुःखिताः सुखदुःखे । क्षणेनैव जना दुःखसागरे प्रति
प्यते, क्षणेन च सुख सम्पत्तिमासाद्य सुखी संजायते । योऽद्य
मोदमानस्तिष्ठति [अन्येद्युः सहसैव तस्योपरि महद् दुःखमाप-
चिराय: महता दुःखेन कथंचित्कालमतिवाहयन्तो
बहवोऽकस्मादेव सुखसम्पदमासादयन्ति । वस्तुतो नैवैका-
न्ततः कस्यचिद् दुःखाधिगतिः सुखसमागमो वाकर्ण्यते ।
सर्वेषामपि ताभ्यां समागमोऽस्थिर : क्षणभङ्गुरश्च ।
तति ।



तदेतत् शुभाशुभयारकस्मादेव समुपस्थानं क्षणभङ्गुरत्व च
न केवलं साधारणमनुष्याणां विषये अद्यत्व एव वा दरीदृश्यते,
किन्तु महामहिमशालिनामितिहासपुराणेषु प्रख्यातयशसां मह-
तामपि विषये तयोस्तादृश्येव स्थितिः । तथा हि महाभागो
राजराजो नलः प्रथमं पितृपितामहपरम्पराप्राप्तां राज्यसम्पत्ति-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२९&oldid=355326" इत्यस्माद् प्रतिप्राप्तम्