पृष्ठम्:Prabandhaprakasha.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
३३
-
राजा - मन्त्रिन् ! कार्यस्य गुरुतया सपदि गन्तव्यमित्येव
मदीय आदेश: ।
www
मन्त्री -[ सवितर्काशङ्कं सविनयञ्च ] महाराज ! क्षणं
यावद्रहसि गन्तुमनुजानातु ।
राजा - [ विविध विकल्पेषु निमज्जन् ] रहसि किंनिमित्तं
गमनम् ?
मन्त्री - देव ! क्षणं यावदेव प्रकोष्ठे गत्वा साकमार्येण
परिषत्प्रासादं यामि ।
[ सर्वेऽप्यधिकारिण: पुलकितवदना बभूवुः । ]
राजा-अस्तु गच्छतु प्रकोष्ठे, परं मद्वितीयो भवान् ।
-
मन्त्री - ( सभयम् ) नरपते ! मा वातीद् भवान् कष्टम् ।
नैष प्रकोष्ठो भवतो गमनाय समुचितः । यत इहास्ते माम-
कीना मुख्या सम्पद् । सा च भवतो दृष्ट्यातिलध्वी |
राजा - ( नूनमयमिन्द्रजालिक इत्यवितथेो लोकप्रवाद

इति मन्यमानः ) मन्त्रिन् ! नूनं मयापि नियतमेव प्रकोष्ठा-
भ्यन्तरे गन्तव्यम् ।
मन्त्री -- भवतु | यथाभिरोचते श्रीमते ।
प्रथ राजा सहान्यैर्निजाधिकारिभिरन्तः प्रविवेश । तत्र हि
प्रकोष्ठे नासीदासनम्, नापि काचिदलङ्करणसामग्री, न चापि
बहुमूल्यं किश्चिदन्यत्। केवलं भित्तिनिखातालयेषु पुस्तका
न्यासन् संस्थितानि । एकत्र चत्वारो वेदाः ।
खानि । अन्यत्र ह्यु पनिषन्निबन्धाः | अपरत्र नाटकाख्यान-
एकत्र ब्राह्म-

,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४१&oldid=355338" इत्यस्माद् प्रतिप्राप्तम्