पृष्ठम्:Prabandhaprakasha.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१६
ततश्च कर्मणोऽनन्तरमेव न तु पूर्वं यत्फलमुपतिष्ठते तदेव
दैवमिति मन्तव्यम् ।
न केवलं श्रुतिस्मृतिप्रतिपादितत्वेनैवोद्योगस्य परमं माहा.
तम्यम् । किन्तु सूक्ष्मेक्षिकया समीक्षणे सर्वमेव चराचरात्मकं
जगदुद्योगस्य परमोपयोगितां, सृष्टिकतुर्भगवतः परमेश्वरस्य
सङ्कल्पानुकूल्यं च तस्य द्योतयति । तथा हि यत्रापि दृर्शिनः
क्षिप्यते तत्रैव सर्वमप्याध्यात्मिकाधिदैविकाधिभौतिकं वस्त्वे-
कान्ततः स्वस्वनियतकर्मपालनपरं संदृश्यते । तथा च निशा-
करदिवाकरयोः पर्यायेणोदयोऽस्तमयनं च सूर्यकरैरनवरतं
रसादानं, सरितां सातत्येन सलिलप्रवाहः, पशुपक्षियां सनि-
यमं कर्मपरायणता, अस्मच्छरीरान्तर्गतानां हृदययकृत्प्रभृतीनां
सर्वेषामध्यवयवानां सर्वदेव स्वस्वकर्मपरता च सर्वमेतदुद्योगपर-
तैव जीवनस्य प्रथमो नियमः, सृष्टिकतुर्भगवतश्च परमोऽभिप्राय
इति ख्यापयति । कस्याविदितं यच्छरीर परिश्रमेणैवास्माकं
तानि तानीन्द्रियाणि सुस्थानि सबलानि च भवन्ति । एवमेव
समुचितपरिश्रमेणैव मानस्यस्तास्ता: शक्तय: सुपुष्टाः संवर्धि-
ताश्च जायन्ते ।
.
ततश्च मधुरमधुराक्षरा बीजमन्त्रोऽयमखिलसिद्धीनां य
एष समुद्योगो नाम ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२७&oldid=355324" इत्यस्माद् प्रतिप्राप्तम्