पृष्ठम्:Prabandhaprakasha.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८
प्रबन्धप्रकाश:
,
यत्प्रथमं तु यचैवमिति कथ्यते तदपि पूर्वजन्मकृतकर्मण एव
फलम् । द्वितीयं दैवं हि प्रारब्धकर्मरूपं संचितकर्मरूपं वा
नानन्तफलम् । स्वफलं निर्वर्त्य तत्स्वयं क्षयं याति । तत्र
सर्वदैव क्रियमाणस्य कर्मण उपयोगोऽनपवादश्च ।
S
किच नैवं मन्तव्य यदैवं पुरुषकारेण नान्यथा कतु
शक्यते । एव' चेत्क उपयोगोऽनिष्टवारणार्थ कृतानां दानज-
पोपवासादीनां शास्त्रीयाणां कर्मणाम् ।
तत्रैलोका भवन्ति

न दैवमिति संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्यमेन कस्तैलं तिलेभ्य: प्राप्तुमर्हति ॥
पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते
तस्मात्पुरुषकारेण विना देव' न सिध्यति ॥
यथा केन चक्रेण न रथस्य गतिर्भवेत् ।
एव पुरुषकारेण विना दैव न सिध्यति ||
वस्तुतस्तु मनुष्यस्य कर्मण्येवाधिकारः । कर्मफलं तु परमे-
श्वराधीनम् । अतस्तस्य चिन्तनमनधिकारचेष्टितमेव । अत
एव श्रुतिवचोऽमृतम् -
rem
कुर्वन्नेवेह कर्माणि जिजीविषेच्छ्रत समा: ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥
'तच्चानूदित' भगवद्गीतासु-
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||
t

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२६&oldid=355323" इत्यस्माद् प्रतिप्राप्तम्