पृष्ठम्:Prabandhaprakasha.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
काशकुशावलम्बनन्याय:

नद्यादौ पतितस्य सन्तरगानभिज्ञस्य हि काशकुशाव-
लम्बनमनर्थकं भवति ।
कुड्यं विना न चित्रम् । अथवा -- सति कुड्यो चित्रम् ।
कूपमण्डूकन्यायः ।
कूपयन्त्रघटिकान्यायः ।
तथा हि – एष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ।
क्रिया हि विकल्प्यते न वस्तु ।
अयं भावः । कर्तुमकतु मन्यथा वा कतु शक्यं हि
कर्म । यथाश्वेन गच्छति, पद्भ्यामन्यथा वा, न वा गच्छ-
तीति । न तु वस्त्वेषं नैवमन्ति नास्तीति वा विकल्प्यते ।
क्वास्तः क्व निपतित: ।

ज्ञते चारमिव ।
=
खल्वाटबिल्वीयन्यायः (= काकतालीयन्याय: ) |
गतानुगतिको लोको न लोक: पारमार्थिकः ।
घुणाक्षरन्यायः ।
तत्र वर्धमानः (३।१९५) – घुणेोत्किरणात्कथंचिन्नि
पन्नमक्षरं घुणाक्षरम् । तदिव यदकुशलेन दैवात् निष्पद्यते
तद् घुणाचरीयम् ।
चिन्तामणिं परित्यज्य काचमणिग्रहणन्यायः ।
तुष्यतुदुर्जनन्याय: ।
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२२४&oldid=355523" इत्यस्माद् प्रतिप्राप्तम्