पृष्ठम्:Prabandhaprakasha.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ -- लौकिकन्यायाञ्जलिः
अजाकृपाणीयन्याय: ।
यथा हि खलु कण्डूयनार्थं स्तम्भादौ ग्रीवां प्रसार-
यन्त्या अजाया यहच्छया पतता कृपाणेन ग्रोवा छिद्येत,
एवं यत्राकस्मादेवानर्थाद्यापतेत्तत्र अकस्मादेवाश्चर्यमय्या
घटनाया: स्थले वायं न्याय: ।
अणुरपि विशेषोऽध्यवसायकर: ।
अनिषिद्धं ह्यनुमतं भवति ।
अन्धकवर्तकी यन्याय: ( अथवा- -अन्धचटकन्यायः )।
हिन्दी — “अन्धे के हाथ बटेर"
-
}
अन्धगजन्यायः ।
यथैक एंव गज: करपादादिरूपण केनचिदवयव-
विशेषण प्रज्ञापितोऽन्धैः सर्परूप: स्तम्भरूप इत्येवं नानारूपेण
कल्प्यते । एवमेव यत्रेकमेव वस्तु अज्ञानवशाद् बहुश:
कल्प्यते तत्रायं न्यायः ।
अन्धपरम्परान्याय: ( अथवा – अन्धेनैव नीयमाना यथान्धाः ।
यद्रा – अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे ।)
अन्धदर्पणन्यायः ।
तथा हि । यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२२२&oldid=355521" इत्यस्माद् प्रतिप्राप्तम्