पृष्ठम्:Prabandhaprakasha.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४.
प्रबन्धप्रकाश:
( यादृशे कामे मनो धत्ते तादृशं काममपस्यया
कर्मणा विन्दते इत्यर्थ: ।)
य उ स्वयं वहते सो प्ररं करत् । (५१४४८) ।
(य एव स्वयमनन्यप्रेरितोऽनुतिष्ठति सोऽत्यर्थ कुर्यात् ।
न ह्यन्येन कारितं फलवद्भवतीत्यर्थः) ।

अनुवाणो अध्येति न स्वपन् । (५|४४ | १३)
(अनुसंकीर्तयन्नेव स्मरति न तु स्वपन्नित्यर्थः) ।
यो जागार समृचः कामयन्ते यो जागार तमु सामामि यन्ति ।
(५०४४।१४) ।
विद्वान् पथ: पुरएता ऋजु नेषति । (५/४६ | १) ।
( विद्वान् मार्गाभिज्ञ एव पुरएता पुरतो गन्ता सन् पथो
मार्गान् ऋजु यथा स्यात्तथा प्रापयतीत्यर्थः) ।
न दुष्टुती मर्त्यो विन्दते वसु । ( ७१३२ | २१ ) ।
( मर्यो दुष्टुत्या धनं न विन्दते इत्यर्थः) |
न स्रेघन्तं रयिर्नशत् । (७|३२|२१) |
(घन्तं हिंसन्तं स्वकर्माण्यकुर्वन्तमिति यावत् रयिर्धनं
न नशत् न प्राप्नोतीत्यर्थः) ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२२१&oldid=355520" इत्यस्माद् प्रतिप्राप्तम्