पृष्ठम्:Prabandhaprakasha.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
ऋग्वेदसंहितायाः
२१३
अन्तरमृतमप्सु भेषजम् | (१|२३|१८ ) |
विश्वभेषजी: । ( १|२३|२० ) |
सविता... अपामीवां बाधते । (१|३५|६) |
( सविता अमीवां रोगादिबाधामपबाधतेऽपाकरातीत्यर्थः) ।
न दुरुक्ताय स्पृहयेत् । (१।४१ ६ ) |
( दुष्ट वाक्यं न कामयेदित्यर्थः ) ।
नभो न रूपं नरिमा मिनाति । (१९७१ | १० ) ।
(नभ इव जरा रूपं हिनस्ति) |
पश्यदक्षण्वान् न वि चेतदन्ध: । ( १११६४|१६) ।
(ज्ञानदृष्ट्युपेत एव वस्तुतत्त्वं जानाति, अन्ध: स्थूलदृष्टि-
स्तु न विज्ञानातीत्यर्थः) ।
)
बहुप्रजा निऋतिमा विवेश | (१९६४ | ३२) ।
पुलुकामो हि मर्त्यः । (१।१७८१५) ।
( मनुष्य : खलु कामेन निरुद्ध एव वर्तत इत्यर्थः) ।
जायेदस्तम् । (३५३।४ ) ।
(:
= जाया इत् अस्तम् = जायैव गृहं भवतीत्यर्थः) |
न ऋते श्रान्तस्य सख्याय देवा: । ( ४ | ३३|११)
( श्रमयुक्ताहते परिश्रम मन्तरेणेति यावत् देवाः सख्याय न
भवन्तीत्यर्थः) ।
यादृश्मिन् धायि तमपम्यया विदत् । (५/४४/८)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२२०&oldid=355519" इत्यस्माद् प्रतिप्राप्तम्