पृष्ठम्:Prabandhaprakasha.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
विक्रमोर्वशीयात्
२०६
अनुत्सेक: खलु विक्रमालङ्कारः ।
नास्त्यगतिर्मनारथानाम् ।
छिन्नबन्धे मत्स्ये पलायिते निर्विरणा धीवरा भयति धर्मो
मे भविष्यति ।
उत्तररामचरितात्
एतं हि हृदयमर्मच्छिद: संसारभावा: येभ्यो बीभत्समाना:
सन्त्यज्य सर्वान्कामानरपये विश्राम्यन्ति मनीषिणः ।
प्रसवः खलु प्रकर्षपर्यन्त: स्नेहस्य, परं चैतदन्योन्यसंश्ले-
षण पित्रों: ।
स्नेहश्च निमित्तसव्यपेक्षश्चेति विप्रतिषिद्धमंतन् ।
साक्षात्कृतघमण महर्षयस्तेषामृतंभराणि भगवतां परोर--
जांसि प्रज्ञानानि न क्वचिद्रयाहन्यन्त इत्यनभिशङ्कनीयानि |
मृच्छकटिकात्
गुण: खल्वनुरागस्य कारणं न बलात्कारः ।
साहसे श्रीः प्रतिवसति ।
न चन्द्रादातपो भवति ।
अहो विग्वैषम्य लोकव्यवहारस्य ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१६&oldid=355515" इत्यस्माद् प्रतिप्राप्तम्