पृष्ठम्:Prabandhaprakasha.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८
दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदय
विदग्धजनः ।
प्रबन्धप्रकाशः
.
स्वप्न इवाननुभूतमपि मनोरथो दर्शयति ।
बहुभाषिणो न श्रद्दधाति लोकः ।
आजन्मक्रमाहितो बलवान् जननीस्नेहः |
केन कदावलोकितो ज्योत्स्नारहितश्चन्द्रमाः ।
एतत्खलु प्रदीपेनाग्ने: प्रकाशनम् ।
मिथ्यापि तत्तथा यथा गृहीतं लोकेन ।
यस्यामेव वेलायां चित्तवृत्तिः, सैव वेला सर्वकार्येषु ।
भृत्या अपि त एव ये संपत्तेर्विपत्तों सविशेषं सेवन्ते ।
अतिक्रमणीया हि नियतिः ।
लोकेऽपि च प्राय: कारणगुणभाञ्ज्येव कार्याणि दृश्यन्ते ।
अभिज्ञानशाकुन्तलात्
सर्वः कान्तमात्मीय पश्यति ।
स्निग्धजनसंविभक्तं खलु दुःखं सह्यवेदनं भवति ।
तिने पापाशङ्की ।
सर्वास्ववस्थासु रमणोयत्वमाकृति विशेषाणाम् ।
न कदापि सत्पुरुषा: शोकपात्रात्मानो भवन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१५&oldid=355514" इत्यस्माद् प्रतिप्राप्तम्