पृष्ठम्:Prabandhaprakasha.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतां चेतांसि |
.
अपुत्राणां किल न सन्ति लोका: शुभा: ।
जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुषस्येह जन्मनि ।
नहि शक्यं दैवमन्यथाकतु मभियुक्तेनापि ।
धर्मपरायणानां सदा समपसंचारिण्य: कल्याण संपदा भवन्ति ।
आवेदयन्ति हि प्रत्यासन्नमानन्दमग्रपातीनि शुभानि
निमित्तानि । -
सत्ये ऽयं लोकवादो यत्संपत्संपदं विपद्विपदमनुबध्नातीति ।
आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव ।
हो जगति: जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्ता-
न्तान्तराणि ।

1
·
प्रबन्धप्रकाश:
सर्वथा न क चिन्न खलीकरोति जीविततृष्णा ।
प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि च सदा खलु भवन्ति
·
.
अहो दुर्निवारता व्यसनोपनिपातानाम् ।
सर्वथा न कञ्चन न स्पृशन्ति शरीरधर्माणमुपतापा: ।
अस्व खलूपहासास्पदवामीश्वरो नयनि जनम् ।
सर्वथा दुर्लभं यौवनमस्खलितम् ।
२०७
सुखमुपदिश्यते परस्य ।
'नास्ति खल्वसाध्य' नाम भगवतो मनोभुवः |
बहुप्रकाराश्च संसारवृत्तयः ।
प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि,
आयतस्वभावानि च दुःखानि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१४&oldid=355513" इत्यस्माद् प्रतिप्राप्तम्