पृष्ठम्:Prabandhaprakasha.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
१३
तो बुद्धिमन्तो ना पनतमवधीरयन्ति । किन्तु तत्सा-
दरं सहर्ष च स्वीकृत्य तद्वारैव भाविन्या उन्नत्यै प्रयतन्ते ।
अतः सम्यगेवाच्यते-
वरमद्य कपोत: वो मयूरादिति ||
मर्कटस्य सुरापानं ततो वृश्चिकदंशनम् |
तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥
इद्द खलु नानाविधकार्यकारण सम्बन्धनिबन्धने भुवने कोड-
प्ययं नियमत्रिलोकीनाथेन भगवता निखिलजगद्यापारनिर्वर्त-
केन प्रवतित: संदृश्यते यत्स्वानुरूपसाहाय्यमासाद्य सर्वेऽपि
भावा: प्रबला: संजायन्ते । एवं च यद्वस्तु स्वत एवानर्थ-
कारि तद्यदि स्वानुरूपं साहाय्यमासादयेत्तहि भूयसेऽनधायैव
प्रकल्पते । यथा हि खलु वह्निः स्वभावेनैव पदार्थान् भस्मसा-
त्करोति । स यदि कस्मिंश्चिदुटजे संदीप्तः स्यात्, उटजं चानार्द्रा -
तृणप्रकल्पितं भवेत्, प्रचण्डमार्त्तण्डातपेनोष्णश्चण्डवेगश्च वायुः
प्रवत् तहि तदेतदखिलं सहजानर्थकारियो वरनुरूपं सा-
हाय्यं महतेऽनर्थ प्रवाहाय प्रभवति । तादृश्यामवस्थायामपरि-
मेयानर्थ सन्तति सम्भूतिशङ्का सुतरां स्वाभाविकी। तदत्रैतदा-
शयवर्णनपरैव कस्यचित्कविप्रकाण्डस्य भणितिरियम् -
मर्कटस्य सुरापानमित्यादि ।
-
C

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१&oldid=355318" इत्यस्माद् प्रतिप्राप्तम्