पृष्ठम्:Prabandhaprakasha.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४
प्रबन्धप्रकाश:
अयं भावः ।
इति महाननर्थ: ।
यथा हि प्रथमं तु मर्कट: स्वभावेनैव चपल
स यदि सुरापानं विदधीत, वृश्चिकश्च तं
दशेत् ततोऽपि च प्रेतादिसंचार: स्यात्तह्यं तदनर्थ चतुष्टयसमा-
पतने यदपि भवेत्तदल्पमेवेति मन्तव्यम् । यतस्तस्यामवस्थायां
को नु वक्तुं समर्थो यदेतावत्येवानर्थसम्भूतिर्भविष्यति ।
मेव यत्रापि स्वतोऽनर्थकारियोऽनुरूपसाहाय्यलाभस्तत्र कदा
कोऽनर्थ: समापतेदित्येनदवधारणं दुःशकम् ।
एव-
यथ । हि खलु यत्र यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता
इत्येतच्चतुष्टय सद्भावस्तत्र यदप्यनर्थजातं समापतेत्तदस्पमित्येवा-
वगन्तव्यम् । नैव तत्रानर्थ श्रेणिसमापतन इयत्तावधारण-
संभवः । तदेतत्पद्यं गीयते-
,
-
-
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमध्यनथीय किमु यत्र चतुष्टयम् ॥ इति ।
तथ्यमियमेवावस्था समुपस्थितासीद् भारते वर्षे महाभारत-
युद्धप्रवर्तनात्प्राक् । तस्मिन्नेव हि समये यैदुर्योधनादिभिर्ध-
नादिमदोन्मत्तैर्भारतं समाक्रान्त तेऽपि यौवनधनसंपत्यादिभि
चतुर्भिरध्यनर्थकारणैः समेता बभूवुः । तत एव तत्तन्महान.
मात भारतस्योपरि समापतित यस्य दुष्प्रभावेणाद्यापि प्रस्त
भरतमुन्नतिपथात्प्रस्खलति ।
,
कि बहुना, यस्मिन्नपि काले कस्याप्युद्दण्डतया निरंकुशा-
चारणेच समुद्वेजिता लोक आसीत्तदैवमेवानर्थमूलानि नाना-
विधकारणानि समुपस्थितान्यासन् ।
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२२&oldid=355319" इत्यस्माद् प्रतिप्राप्तम्