पृष्ठम्:Prabandhaprakasha.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२
प्रबन्धप्रकाश:
युक्तियुक्ता ह्यषा नीति: । तथा हि प्रस्थापिते ह्यपर-
स्मिन्पादे स्थितस्य चरणस्याप्युत्थापनं को नु विद्वान्
समनुमन्येत ? भाविन्या: श्येनाधिगत्या आशया को नु
व्याधो जालमापन्नमपि कपोतजातं परिहरन् स्ववृत्तिमा-
चरन् सुखाभिलाषी भवेत् १ भाविनः कुञ्जराधिगमस्याशा-
मनुरुध्य मृगमुत्सङ्गागतमपि पर्यस्यतः केसरिणो वा कथङ्कार
प्राणाधारसम्भवः ?
ततश्च भाविनोऽर्थस्याशामवलम्ब्य प्राप्तमपि परित्यजन्नहि
कोऽपि सुखमधिगन्तुमर्हति । प्रत्युत तद्विनाशनिदानमेवैतद-
·न्ततः सञ्जायते । तदत्र गीयते सुभाषितमेतत्-
---
-
यो ध्रुवाणि परित्यज्य ह्यध्रुवं परिषेवते ।
ध्रुवाणि तस्य नश्यन्ति ह्यध्रु वं नष्टमेव तु ॥
-
ये पुनरेजा नीतिमनुवर्तन्ते त एवात्र जगति न केवलं
सुखिन एव भवन्ति किन्तूत्तरोत्तरामुन्नतिं चाप्यासादयन्ति ।
न केवलं साधारणव्यवहार एव किन्तु महत्वयुक्ते राज-
नीत्यादिव्यवहारेऽप्येपैव नीतिरवलम्ब्यते सुज्ञ: । राजनीतिज्ञा
हि पदे पदे यदपि किञ्चिदल्पं बहु वा समयानुकूल्येन समु
पस्थितं भवति तदेव बहु मन्यन्ते । न तु भावि समुत्कृष्टतरं
वस्त्वनुधावन्तस्तत्तुच्छं मवा परिहरन्ति । आयर्लेण्डादि-
देशानां पूर्णस्वतन्त्रतावाप्तितत्पराणामपि नियमित स्वतन्त्रतायाः
स्वीकारोऽस्या एव नीतेर्निदर्शनम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०&oldid=355317" इत्यस्माद् प्रतिप्राप्तम्