पृष्ठम्:Prabandhaprakasha.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
सन्देहास्पदमेव । ततश्च प्रायश: स्वीयसुखमयपूर्वावस्थातोऽपि
परिभ्रष्टानां तेषां सकलं जोवनं दुःखमयमेव जायते ।
अन्ये पुन: स्वीयवर्तमानावस्थायां सन्तुष्टाः परेशस्य धन्य
वादपुरःसरं प्राप्त सुखमनुभवन्ति । तेषु कंचिदत्यन्तं स्वीयभा
व्युन्नतिनिरपेक्षा भवन्ति । परन्तु ये बुद्धिमन्तस्ते तु वर्तमानेन
सन्तुष्टा अपि भविष्यदर्थमपि प्रयतमाना भवन्ति ।
तत्र ये पूर्वविधा मानवास्तानेव समुद्दिश्येदं नीतिवचनम् -
वरमद्येत्यादि ।
एष एव समुन्नतिमार्गो यदधिगतस्य संरक्षणम् । प्राप्तस्य हि
सम्यग्रक्षणे क्रमेण शनैः शनैरुत्तरोत्तरोन्नतिः सम्भाव्यते । न केवल-
मधिगतस्य स्वरूपेणैवोपयोगित्वं किन्तु भाविन्या अभीष्टाया
अभ्युन्नते: साधनत्वेनापि। यत्पूर्वमधिगम्यते तद्द्वारैव प्रायशो
बुद्धिमद्भिः समुत्कृष्टतरस्यानागतस्य वस्तुनः प्राप्तिरुत्तरकाले
साध्यते । अतोनहि भाविनीमाशामनुरुष्याधिगतस्यापि परि
त्याग: परिहारो वा समुचितः । अत एव नीतिविदः प्राहु:-
उपनतमवधीरयन्त्यभव्या: ।”
6
6
“वर्तमानेन कालेन वर्तयन्ति विचक्षणा: ।” इति ।
ये पुनरेतं नियमं तिरस्कृत्य वर्तन्ते तेषां विषये हि "इतो
भ्रष्टस्ततो भ्रष्ट: ", "इदं च नास्ति न परं च लभ्यते”, “वृद्धिमि-
ष्टवतो मूलं विनष्टम्”, “पुत्रलिप्सया देवं भजन्त्या भर्तापि
नष्ट: ", "एक" सन्धित्सतोऽपरं प्रच्यवते" इत्यादिन्यायाश्चरि-
तार्थी भवन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९&oldid=355316" इत्यस्माद् प्रतिप्राप्तम्