पृष्ठम्:Prabandhaprakasha.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वरमद्य कपोतः वो मयूरात्
इह खलु नानाविधचिन्ता सन्तानसन्दा नितमानवकुलसंकुले
संसारे किन्नु मनुष्याणां दुःखस्य निदानं किं वा तत्प्रतीकार
इति मीमांसाव्यतिकरे समाहितमित्थं केनचिन्नीतिज्ञधुरन्ध-
रेण विपश्चिता-
वरमद्य कपोतः श्वो मयूगदिति ।
स्वल्पाक्षरं खल्विदं वचनम् । अर्थस्त्वस्यातीव गभीर:
तथ्योपदेशप्रदः परमोपयोगी च । इह लोके हि नानाविधा
मानवा दृश्यन्ते । तत्रैतादृश एवादीर्घदर्शिनो बहवो ये स्वीय-
वर्तमानावस्थिताव संन्तुष्टा उपस्थितश्रेयोऽवमानिनो भाविन्या:
समुत्कृष्टतरावस्थायाः कृत एव निरन्तरमितस्ततो धावन्त:
"आशाया ये दासास्ते दासा: सर्वलोकस्य", "आशा नाम
नदी मनोरथजला तृष्णातरङ्गाकुला, रागग्राहवती वितर्कविहगा
धैर्य द्रुम ध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्ता-
तटी" इत्याद्युक्त्यनुरूपमामरणमेव चिन्तासन्तानसन्दानित-
हृदयास्तृष्णा समुद्भूतेनासन्तोषेगा च "अशान्तस्य कुतः
सुखम्" इत्यनुकूलं सदैव दु:खिनः स्वजीवनकालमतिवाह-
यन्ति । अन्ततोऽपि ते सफलमनोरथा: सुखिनश्च भवन्तीति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१८&oldid=355315" इत्यस्माद् प्रतिप्राप्तम्