पृष्ठम्:Prabandhaprakasha.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
अत्रापि
नैव सर्वेषु विषयेषु समान एवोपक्रमप्रकार : समुचितः । प्रति-
पाद्यविषयानुकूलेनैव रचनाया उपक्रमेण भवितव्यम् ।
(२) उपसंहारप्रकारोऽपि नहि सर्वत्र समानः |
लेखकादिभेदेन विभिन्नताऽनिवार्या । तथा हि कदाचित्पूर्व-
मुक्तानां हेत्वादोनां समासेन पुनरावृत्तिद्वारैव समाप्तिः क्रियते ।
कदाचित्पुनरावृत्तिमन्तरेगौव। एवमन्येऽपि भेदा उपसंहार-
प्रकारे दृश्यन्ते ।
एवमन्येऽपि नियमा दर्शयितुं शक्यते । ते पुनः प्रसिद्ध-
लेखकानां प्रबन्धानामनुशीलनेन स्वयमेव छात्रैर्निधरणीयाः ।
उपसंहारः
एवमत्र संक्षेपेणैव प्रबन्धरचनाया: प्रक्रियादि प्रदर्शितम् ।
तन्निदर्शनभूताश्च केचित्प्रबन्धा अस्मिन्प्रन्थे संनिवेशिता:
सन्ति । रुचिवैचित्र्येण शैलीवैचित्र्यस्य प्रद्योतनार्थं च न
केलं स्वकर्तृको एव किन्त्वन्यप्रसिद्ध लेखक निबद्धा अपि
प्रबन्धाः, यथावश्यकं तदधिकारिणामनुज्ञयैव, सधन्यवादमत्र
संगृहीता: । किंच, यद्यप्यालोचनात्मक निबन्धानामेव प्रायशोऽ-
पेक्षितत्वेन तेषामेवात्र प्राधान्येन समावेश : कृतस्तथाप्यन्य-
प्रकारका निबन्धा न सर्वथैवोपेक्षिताः । ग्रन्थान्ते पुन: सुभाषि-
तानां लौकिकन्यायानां च प्रबन्धरचनायामुपयोगितामाकलय्य
चतुर्भि: प्रकरौस्तान्यपि संगृहीतानि ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७&oldid=355314" इत्यस्माद् प्रतिप्राप्तम्