पृष्ठम्:Prabandhaprakasha.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रबन्धप्रकाशः
नियमाः सन्ति । प्रधानप्रतिपाद्यविषयस्य रक्ष कुर्वन्, भाषाया
औचित्य चापरिहरन् प्रबन्धलेखको येन केनापि प्रकारेण
स्वेच्छया रचनाकरणे स्वतन्त्रः ।
( ३ ) विचारेषु स्वोपज्ञता भाषायां च स्वाभाविकता-
वश्यकी । अलङ्कारशास्त्रप्रतिपादितानां गुणानामपि रचनायां
यथोचितः समावेश: कर्तव्यः ।
( ४ ) रचनायां यावदुपपत्तिप्रकारस्य प्राधान्य न तावत्
तत्तद्विषयकसिद्धान्तविशेषाणाम् । रचनाप्रकारो हृदयग्राही
युक्तियुक्तश्चेत् तत्तद्विषये यस्य कस्यापि सिद्धान्तस्य प्रतिपादने
लेखक: स्वतन्त्रः । शब्दान्तरेषु, 'किं प्रतिपाद्यते' इत्यस्या-
पेक्षया 'कथं प्रतिपाद्यते' इत्यत्रैवाधिक ध्यान देयम् ।
( ५ ) रचनाया: परिमाणापेक्षया तस्याः प्रकार: शैली
चाधिकमावश्यकी । शोभनप्रकारेण रचितोऽल्पतरपरिमाणोऽपि
निबन्धोऽशोभनप्रकारेण रचितादत्यधिक मादरास्पदम् !
( ६ ) पुनरुक्तव्याघातादि दोषा अन्ये चाप्यलङ्कारशास्त्र-
प्रतिपादिता दोषा: परिवर्जनीयाः ।
( ७ ) यथा प्रसङ्गोचित सुभाषितादिवचने।ल्लेखा रचनाया:
शोभामावहति तथैवात्यधिकोऽप्रासङ्गिका वा तेषामुल्लेखा
रचनासौन्दर्यमपहरति । किञ्च नैवं मन्तव्य यदेतादृशः
परवचनोपन्यासः सर्वथावश्यक एवं रचनायाम् ।
,
(८) नैव कश्चिद्वयवस्थितः प्रकाश रचनाया उपक्रमस्य
विषये । बुद्धीनां रुचीनां च वैचित्र्याद् वैचित्र्यमत्र दुर्वारम् !

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६&oldid=355313" इत्यस्माद् प्रतिप्राप्तम्