पृष्ठम्:Prabandhaprakasha.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२
.प्रबन्धप्रकाश:
कृशे कस्यास्ति सौहृदम्।
आत्मन: प्रतिकूलानि परेषां न समाचरेत् ।
बलीयसा हीनबला विरोधं न भूतिकामो मनसापि वाञ्छेत् ।
भिन्नलिष्टा तु या प्रीतिर्न सा स्नेहेन वर्धते ।
अनागतं यः कुरुते स शोभते ।
स शोच्यते यो न करोत्यनागतम् ।
सन्तापयन्ति कमपथ्यभुजं न रोगा: ?
क श्रीर्न दर्पयति ?
क' न निहन्ति मृत्युः ?
लुब्धस्य नश्यति यशः, पिशुनस्य मैत्री,
नष्टक्रियस्य कुलमर्थपरस्य धर्म:,
विद्याफलं व्यसनिनः, कृपणस्य सौख्यम् ।
कण्टकेनैव कण्टकम् ।
अपि शत्रु प्रणम्यापि रक्षेत् प्राणान् धनानि च ।
त्यजति पण्डित: M
सर्वनाशे
यस्मिन्कुलं त्वमुत्पन्नो गजस्तत्र न हन्यते ।
मौनं सर्वार्थसाधनम् ।
अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण ।
वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा ।
उदारचरितानां तु वसुधैव कुटुम्बकम् |
दुष्टे दुष्टं समाचरेत् ।
अपि कापुरुषो मागें द्वितीय क्षेमकारकः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०९&oldid=355508" इत्यस्माद् प्रतिप्राप्तम्