पृष्ठम्:Prabandhaprakasha.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.
प्रबन्धप्रकाश:
प्रकृतोपद्रवः कश्चिन्महानपि न पूज्यते ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता |
काल: सर्वजनान् प्रसारितकरी गृह्णाति दूरादपि ।
सुतप्तमपि पानीय शमयत्येव पावकम् |
सतां साप्तपदं मैत्रम् ।
कोऽतिभार: समर्थानाम् १
किं दूरं व्यवसायिनाम् ?
को विदेश: सुविद्यानाम् ?
कः परः प्रियवादिनाम् ?
हेतुरत्र भविष्यति ।
ऊष्मापि वित्तजी वृद्धिं तेजो नयति देहिनाम् ।
सकृदपि दृष्ट्वा पुरुष विबुधा जानन्ति सारतां तस्य ।
हस्ततुलयाऽपि निपुणा: पलप्रमाणं विजानन्ति ।
यदस्मदीयं नं हि तत्परेषाम् ।
आच्छादिते ग्वौ मेघैराच्छन्ना: स्युर्गभस्तयः |
वाञ्छाविच्छेदनं प्राहु: स्वास्थ्यं शान्ता महर्षयः ।
प्रचालनाद्धि पस्य दूरादस्पर्शनं वरम् ।
क्षते प्रहारा निपतन्त्यभीक्ष्णम् ।
छिद्रवन बहुलीभवन्ति ।
नक्र: स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ।
२०१

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०८&oldid=355507" इत्यस्माद् प्रतिप्राप्तम्