पृष्ठम्:Prabandhaprakasha.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६
प्रबन्धप्रकाश:
शिशुपालवधात्
श्रेयसि केन तृप्यते ॥ १ ॥ २८ ॥
ऋते रवे: चालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नमः || १||३८||
सदाभिमानैकधना हि मानिनः ।। १ । ६७ ।।
ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि || २ । १२ ।।
महीयांस: प्रकृत्या मितभाषिणः || २ | १३ ।।
इन्धनौघघगव्यग्निस्त्विषा नात्येति पूषणम् || २ । २३ ॥
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ॥ २ ॥ २७ ॥
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः || २ | ३८ ॥
कथापि खलु पापानामलमश्रेयसे यतः ॥ २ । ४० ।।
मा जीवन्यः परावज्ञादु:खदग्धोऽपि जीवति ॥ २ । ४५ ॥
VI सामानाधिकरण्यं हि तेजस्तिमिरयाः कुतः ॥ २ । ६२ ।।
सर्व: स्वार्थ समीहते ॥ २ । ६५ ।।
उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ॥ २ | ८० ॥
अथाबलमारम्भ निदानं क्षयसम्पदः ॥ २ । ६४ ॥
बृहत्सहाय: कार्यान्तं चोदीयानपि गच्छति || २ | १०० ||
क्षणे चणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ||४|१७||
समय एव करोति बलाबलम् ।। ६ । ४४ ॥
स्फुटमभिभूषयति स्त्रियस्त्र पैव ॥ ७ ॥ ३८ ॥
··· प्रस्तसमयेऽपि सतामुचितं खलूच्चतरमेव पदम् | ८ | ५ ||
जित षरया महाधिय: सपदि क्रोधजिता लघुर्जनः ||१६|२६||
अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ||१६|४३||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०३&oldid=355502" इत्यस्माद् प्रतिप्राप्तम्