पृष्ठम्:Prabandhaprakasha.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चकनेमिक्रमेण || २ | ४६ ॥
किरातार्जुनीयात्
...नहि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः || १ | २ ॥
हितं मनोहारि च दुर्लभं वचः ॥ १ ॥ ४ ॥ ७
ब्रजन्ति ते मूढधिय: पराभवं भवन्ति मायाविषु ये न मायिनः||१|३०||
विचित्ररूपाः खलु चित्तवृत्तयः || १ | ३७ || "
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम्॥१॥४१॥ -
ननु वक्तृविशेषनि:स्पृहा गुणगृह्या वचने विपश्चितः ।। २ । ५ ।। ८
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ २ ॥ १५ ॥
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ||२|३०||
स क्षत्रियंत्राणसहः सतां यः || ३ | ४८ ॥
न हीङ्गितज्ञोऽवसरेऽवसीदति ॥ ४ | २० ||
किमिवाबसादकरमात्मवताम् ॥ ६ । १८ ॥
सा लक्ष्मीरूपकुरुते यया परेषाम् || ७ | २८ ॥
आत्मवर्गहितमिच्छति सर्वः ॥ ८॥ ६४ ॥
प्रेम पश्यति भयान्यपदेऽपि ॥ ८ ॥ ७० ॥
उपनतमवधोरयन्त्यभव्या: ।। १० । ५१ ॥
विमलं कलुषीभवञ्च चेतः कथयत्येव हितैषिणं रिपु वा || १३|६||
प्रकृत्यमित्रा हि सतामसाधवः || १४ | २१ |॥ v
सहापकृष्टमेहता न सङ्गतं भवन्ति गोमायुसखा न दन्तिनः || १४|२२|| /

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०२&oldid=355501" इत्यस्माद् प्रतिप्राप्तम्