पृष्ठम्:Prabandhaprakasha.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
अपिस्वदेहात्कि मुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः || १४ | ३५
प्राज्ञा गुरूणां ह्यविचारणीया ||१४|४३ ॥
कुमारसम्भवात्
क्षुद्रोऽपि नूनं शरणं प्रपन्नो ममत्वमुच्चै: शिरसां सतीव | १ | १२||
विकारहेता सति विक्रियन्ते येषां न चेतांसि त एव धीरा ॥१५॥
प्रायेण सामग्यविधा गुणानां पराङ्मुखी विश्वसृज: प्रवृत्तिः || ३|२८||
प्रशनेरमृतस्य चोभयेार्वशिनश्चाम्बुधराश्च योनयः ||४|४३ ||
क ईप्सितार्थस्थिर निश्चयं मनः पयश्च निम्नाभिमुख प्रतीपयेत्
॥५॥५॥
शरीरमाद्यं खलु धर्मसाधनम् || ५ | ३३ ।।
न रत्नमन्विष्यति मृग्यते हि तत् ॥ ५ । ४५ ।।
अलोकसामान्य मचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम्
।। ५ । ७५ ।।
प्राय: प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः || ६ | २० ॥
मेघदूतात्
| याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥ १ ॥ ६ ॥७
आशाबन्ध: कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्य: पाति प्रणयि हृदय विप्रयोगे रुणद्धि ॥ १ ॥ १० ॥ ४
रिक्त: सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ १ | २० ॥ ५
श्रापातिप्रशमनफला: सम्पदा ह्य त्तमानाम् ।। १ । ५३ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०१&oldid=355500" इत्यस्माद् प्रतिप्राप्तम्