पृष्ठम्:Prabandhaprakasha.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ -- सुभाषितपद्यखण्डमाला
रघुवंशात्
हेन: संलक्ष्यते ह्यग्नौ विशुद्धि: श्यामिकापि वा ।। १ । १० ।
न पादपोन्मूलनशक्ति रंहः शिलोचये मूर्च्छति मारुतस्य || २|३४||
क्रिया हि वस्तूपहिता प्रसीदति ॥ ३ ॥ २६ ॥
यशस्तु रचयं परतो यशोधनैः ॥ ३ ॥ १८ ॥ ५
पदं हि सर्वत्र गुणैर्निधीयते || ३ | ६२ ॥ ७
आदानं हि विसर्गाय सतां वारिमुचामिव ॥ ४ । ८६ ॥
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षय : लाध्यतरो हि वृद्धेः॥ ५॥१६॥
उष्णत्वमग्न्यातप सम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलम्य ॥५॥५४॥
भिन्न रुचिहि लोकः ॥ ६ । ३० ।। ५
रत्न' समागच्छतु काश्चनेन || ६ | ७८ ||
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ८४० ॥
अभिमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ८॥४३॥
विषमध्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया || ८|४६ ॥
धिगिमां देहभृतामसारताम् || ८ | ५१ ।।
पदमर्पयन्ति
श्रुतवन्तोऽपि रजोनिमीलिताः ॥६॥७४ ||
तेजसां हि न वय: समीक्ष्यते ॥ ११ ॥ १ ॥
१३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२००&oldid=355499" इत्यस्माद् प्रतिप्राप्तम्