पृष्ठम्:Prabandhaprakasha.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
किन्नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
नु
इति संचिन्त्य मनसा प्राज्ञः कुर्वीत वा न वा ॥ ३८॥
उचितमनुचितं वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्ते....
८..
र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥2017
अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम् ।
यच बाहुबलं भीरोर्व्यर्थमेतत्त्रय भुवि ||४||
पण्डिते चैव मूर्खे च बलवत्यपि दुर्बले ।
ईश्वरे च दरिद्र च मृत्योः सर्वत्र तुल्यता ||१२||
अवज्ञास्फुटितं प्रेम समीकतुक ईश्वरः ।

संधिं न याति स्फुटित' लाक्षालेपेन मैक्तिकम् ॥४३॥
बहूनामल्पसाराणां समवायो दुरत्ययः ||
तृणैर्विधीयते रज्जुर्बध्यन्ते तेन दन्तिनः ||४४॥
तदेवास्य परं मित्र यत्र संक्रामति द्वयम् ।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥४५॥
इचारप्रात् क्रमश: पर्वणि पर्वणि यथा रसविशेषः ।
तत्सज्जनमैत्री विपरीतानाञ्च विपरीता | ४६॥
माय गुणग्रामे नैगुण्यं वचनीयता |
देवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ||४७||
प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।
किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥ ४५ ॥
१८५

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९२&oldid=355490" इत्यस्माद् प्रतिप्राप्तम्