पृष्ठम्:Prabandhaprakasha.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४
प्रबन्धप्रकाशः
नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् ।
विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः ॥२६॥
वनानि दहतो वह्नः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ||३०||
अधोऽधः पश्यतः कस्य महिमा नोपचीयते ।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥३१॥
न संशयमनारुह्य नरा भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ३२॥
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ||३३||
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुभूर्मा ते सङ्गोऽस्त्वकर्मणि ||३४||
यदि समरमपास्य नास्ति मृत्यो-
र्भयमिति युक्तमितोऽन्यत: प्रयातुम् ।
अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः क्रियेत ॥ ३५॥
लोस: प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च ।
द्वेषक्रोधादिजनको लोभ: पापुस्य कारणम् ||३६ ||
शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः |
बुद्धिप्रारब्धकार्यस्य नास्ति किश्चन दुष्करम् ||३७||
प्रतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे ।
परापवादमीरूणां दूरतो यान्ति संपदः ॥३८॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९१&oldid=355489" इत्यस्माद् प्रतिप्राप्तम्