पृष्ठम्:Prabandhaprakasha.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
यथा हि कूपमध्ये च घटमाला भ्रमन्ति च ।
गमागमो हि पश्यामि तद्वत्संसारिणो जना: ॥
जले च बुद्बुदो यद्वत्तद्वत्संसारियो जनाः ।
इत्यादिनिराशाजनकभावपोषक सिद्धान्तैर्व्याप्तात्संस्कृत-
साहित्याद्विपरीतमेव नो वैदिकं साहित्यम् । तत्र हि
विश्वदानी सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम् ।
( ऋ० ६।५२१५ )
अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् ।
इन्द्र ता रथिनीरिष: || ( ऋ० ११९९८ )
इन्द्र त्वातास आ वय वज्र घना ददीमहि ।
जयेम सं युधि स्पृधः || ( ऋ० ११८ | ३ )
अदीना: स्याम शरदः शतं भूयश्च शरदः शतात् ।
( यजु० ३६।२४ )
भद्र' जीवन्तो जरणामशीमहि ( ऋ० १०/३७१६ )
पश्येम शरदः शतम् । जीवेम शरदः शतम् ।
बुध्येम शरदः शतम् | रोहेम शरदः शतम् |
पुष्येम शरदः शतम् । भवेम शरदः शतम् ।
भूषेम शरदः शतम् । भूयसी: शरदः शतात् ॥
(अथर्व० १६/६७/१८)
इत्यादिरूपाभिः प्रार्थनाभिराशावादितैव जातिदृष्ट्या व्यक्ति-
दृष्ट्या च जीवनस्य मुख्य आदर्श:, अभ्युदयस्य निःश्रेयसस्य च
प्रथमं कारणमिति स्पष्ट प्रतीयते । एतद्दृष्ट्या हि जगदेतत्सुन्दरों-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१८४&oldid=355482" इत्यस्माद् प्रतिप्राप्तम्