पृष्ठम्:Prabandhaprakasha.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
षत: प्रयतितव्यम् । कस्यापि देशस्य भविष्यं युवस्वेव
तिष्ठति । यूनामेवोद्योगेन कर्तव्यपरायणतया आशावादितया
सोत्साहन कर्मणा च तत्तद्दशा: समुन्नता: स्वयश:पताका
जगति प्रसारयितु प्राभवन् प्रभवन्ति च । तेषामेवास्मद्देशेऽपि
विशेषत एतत्कर्तव्यं यत्पूर्वोक्तानां दोषाणां परिमार्जनं विधाय
शुद्धाचरणेन ब्रह्मचर्येण श्रद्धया गुरुभक्त्या देशप्रेणा च
नानाशास्त्राण्यधीयाना देशप्रगतिं जगतोऽवस्थिति वावग-
च्छन्तो भारतीय
संस्कृत्या प्रदर्शन ऐक्यभावनां च लोकेषु
संस्थापयन्तः परस्परं सौहार्दन जन्मप्रभृति मरणपर्यन्तं भारती-
यानामभ्युदयनिःश्रेयससाधनतत्परायाः सततं स्वसाहित्यसरो-
रसामृतेन तानाप्याययन्त्याः सर्वथा मङ्गलमय्या भारतीयानां
मातृकल्पाया देववाण्या: समुद्धाराय बद्धपरिकरा भवेयुरिति ।
दैन्यभावस्य च परित्यागो विशेषता विधेय: । दैन्यभाव
आशावादिता च नैकत्रावस्थानं सहेते । आशावादिता
हि अस्माकमार्थधर्मावलम्बिनां मुख्य आदर्श: । दैन्यं
चानार्यजुष्टोऽस्वर्थोऽकीर्त्तिकरश्च गुणः । वेदमन्त्रेषु यत्र
तत्रापि दृश्यते आशावादिता दैन्यराहित्यं चैव श्रेष्ठ आदर्श:
प्रतीयते । अस्माकमध:पतितावस्थाकाले
,
निर्मितादू असर: संसार: सर्वथैव हेयः
बन्धस्थानम्, जीवनं दुःखमयम्'
.
अभ्रमध्ये च पश्यन्ति चञ्चलां विद्युतां गतिम्
क्षणं दृष्ट्वा च नश्यन्ति तथा संसारिणो जनाः ॥
.
दास्यकाले च
कारागारसदृशो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१८३&oldid=355481" इत्यस्माद् प्रतिप्राप्तम्