पृष्ठम्:Prabandhaprakasha.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४
प्रबन्धप्रकाशः
व्यति । सांप्रतिकी खस्ववस्थितिः सर्वथा अस्वाभाविकी ।
अन्यदेशेषु यथा स्वदेशसंबन्धिप्राचीनोत्कृष्टभाषाणां समादर:
संदृश्यते, तथैवास्मद्द शेऽपि अस्मिन्नभ्युत्थानयुगे देववाण्या:
समुत्कर्षण समादरेण च नूनं भाव्यम् । सत्यं संस्कृतज्ञा
असामयिकत्वेन आधुनिक शिक्षितानां दृष्ट्या न तथा समादरा
मन्यन्ते यथा तैर्भवितव्यम् । वस्तुतस्तु आधुनिक शिक्षा.
दीक्षितसमाजस्य संस्कृतज्ञसमाजस्य च शिक्षिताशिक्षितत्व-
दृष्ट्या नहि कश्चिन्मौलिको भेदः । आधुनिक शिक्षिता
जानन्तोऽपि साम्प्रतिकीमवस्थितिमितिहासं राजनीतिं च
भारतीयप्राचीन संस्कृतिज्ञानापेक्षया प्रज्ञा एव । तच्चैतदन्यथा
संस्कृतज्ञेषु । तेऽपि भारतीयप्राचीन संस्कृत्या परिचिता अपि
साम्प्रतिकावस्थाज्ञानापेक्षयैव अज्ञा: । ततश्चाधुनिक शिक्षितैः
सह समानेऽपि तेषां दोषे संस्कृतज्ञानामयमेव गुरुतरी दोषो
यत्तेऽसामयिकाः | नास्त्यत्र संदेहलवोऽपि यत्समयोपयोगि
ज्ञानोपार्जनेन संस्कृतोत्कृष्टपाण्डित्यस्य प्राचीनमर्यादाया:
संरक्षणेन संपोषणेन च पूर्वमेव पूर्णरूपेण भारतीयभावभावितास्ते
वस्तुतः समुत्कृष्टपदं लप्स्यन्ते । एतादृशगुणगणालङ्क ता:
संस्कृतज्ञा एव वस्तुतो भारतीयजनताया नेतृत्वधुरां
वोदुमः ।
तदेतद्यथा नातिविरेण संपद्यते तथैवास्माभिः सर्वे: सर्वथा
प्रयतनीयम् । सर्वेषां छात्राणां गुरूणामन्येषां च भारतीय-
संस्कृत्यनुरागियां सहयोगेनैवैतत्संभाव्यते । छात्रंश्च विशे-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१८२&oldid=355480" इत्यस्माद् प्रतिप्राप्तम्