पृष्ठम्:Prabandhaprakasha.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
१७३
भगवान् ज्ञानभास्वान् भुवनमाभासयितुं प्रवृत्तः । अविद्या-
तमिस्रापगमे सर्गेऽपि मोहनिद्रामुन्मुच्य स्वसमुन्नत्यै चेष्टापरा
इतस्ततो दृश्यन्ते । एषा संसदपि तस्या एव प्रत्यक्षं प्रमाणम् ।
प्रतिवर्ष पर:सहस्राणां छात्राणां संस्कृतपरीक्षासु प्रवेश:,
पर:शतानां पाठशालानां च यत्र तत्र स्थापनम् - सर्वमेतदा-
शावहम् । संस्कृतच्छात्रेषु तु एतादृशां नूतन एव जागर:
परमसन्तोषावहः ।
वस्तुतो न हि कथञ्चदप्यस्माक' निराशाया अवसर |
अपि संस्कृतात्रेषु संस्कृत विद्वत्सु चान्यत्राश्रुतचरा जैके
विशिष्टा गुणा दृश्यन्ते । तपस्या, कष्टसहिष्णुता, गुरुशिष्यभावः,
'अस्मिन्नार्यावर्ते निवासे ये ब्राह्मणा: कुम्भीधान्या अलोलुपा
अगुह्याणकाराः किञ्चिदन्तरेगा कस्याश्चिद् विद्याया: पारङ्ग-
तास्तत्रभवन्तः शिष्टा: ( महाभाष्ये ६।३।१०६) इत्यादर्शानु-
सारमनन्यभावेन निष्कामभावनया च विद्याया: पाठनम्, वस्तु-
तोऽकृत्रिमः स्वदेशप्रेमा भारतीयसंस्कृतेरभिमान:, स्वधर्मपरा-
यणता, कर्मनिष्ठता, आस्तिक्यबुद्धिः, देवभक्तिः, शुचिता, भार-
तीयशीलसदाचारानुवर्त्तित्वम्, विशेषतश्च देववाणी प्रत्यनन्य-
-
प्रेमभावना – सत्सु एतादृशेषु अद्यत्वेऽपि अन्येषु सभ्यता-
भिमानिदेशेष्वपि प्रायेणादृश्यमानेषु गुणेषु निश्चितं देववाण्या
भविष्याभ्युदयविषये न हि कस्याप्यनास्थया भवितव्यम् ।
2
नूनं स समयः पुरस्तात्समुपस्थित इव दृश्यते यदा संस्कृत-
भाषा भूयोऽपि सर्वेषामादरास्पदमुन्नतिशिखरारूढा च भवि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१८१&oldid=355479" इत्यस्माद् प्रतिप्राप्तम्