पृष्ठम्:Prabandhaprakasha.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२
प्रबन्धप्रकाश:
प्रथने प्रवृत्तिश्चात्र स्पष्ट प्रमाणम् । तथा च वात्स्यायनभाष्ये
"कि पुनराप्तानां प्रामाण्यम् ? साक्षात्कृतधर्मता भूतदया
यथाभूतार्थचिख्यापयिषेति प्राप्ताः खलु साक्षात्कृतधर्माण
इद' हातव्यमिदमस्य हानि हेतुरिदमस्याधिगन्तव्यमिदमस्याधि
गमहेतुरिति भूतान्यनुकम्पते ।" ( न्यायभाध्ये २|१|६८ ) |
नृतनग्रन्थकारेषु तु पुन: प्रायेण तद्विपरीतैव प्रवृत्ति: । प्राप्त.
लक्षणस्य वस्तुतत्त्वानुभवमूलकत्वमुपेदय प्राधान्येन शब्दप्रमाण-
तत्परत्वम् वास्तविकी प्रजाहितप्रवृत्तिमनादृत्य अहमहमिका-
भावेन अज्ञानां विवेकरहितानां लक्ष्मीपतीनां राजादीनां
परितोषपूर्वकं वाग्वितण्डया वा नि:सारशब्दावल्या वा
स्वविपक्षानधः कृत्य स्वार्थसाधनमित्येव प्रायेण नूतनग्रन्थप्रगायन-
परिपाट्या रहस्य वृत्तश्च ।
तान्येतानि देववाण्या: संस्कृतज्ञानां चावनते: संक्षेपेणा-
स्मन्मतेन कतिचित् कारणानि । देववाण्याः संस्कृतज्ञानां
च तीत्र: समुन्नत्यभिलाष एव नः प्रेरयति अत्र विषय आत्म-
परीक्षणाय | आत्मपरीक्षणं हि नाम मिथ्याभिनिवेशर हितेन
निश्छद्मना च मनसा विहितं समुन्नते: प्रथमं साधनमिति
समामनन्ति सन्तः ।

अस्माकं कर्तव्यम्
परं प्रसन्नताया विषयो यत्पुनरपि देववाण्यास्तद्वारा च
भारतीय संस्कृतेरभ्युत्थानाय सप्रयत्ना वयम् | उदयाचलमारूढो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१८०&oldid=355478" इत्यस्माद् प्रतिप्राप्तम्