पृष्ठम्:Prabandhaprakasha.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
उदयेऽपि कति नाम ताः समाधातु प्रयत्नपरा दृश्यन्ते । दर्शन-
शास्त्रषु अंशतोऽनूदितान् दर्शनान्तरपदार्थान् यथाकथंचित्प
ठित्वैव सन्तुष्टा नहि चेष्टन्ते केऽपि प्रायेण वस्तुतस्तत्तद्-
'दर्शनान्तरपदार्थस्तान् संवादयितुम् ।
सैषातिमात्रं शब्दप्रमाणपरता अस्थाने प्रयुक्ता नूनं
देववाण्या अवनतावेकतमं मुख्यं कारणम् । एषैवास्माकं विचा.
रसंकीर्णताया नूतन विज्ञानानां संग्रहेऽनुदारताया अपि मुख्य
कारणम् । 'नीचादप्युत्तमां विद्याम्' इति वचने सत्यपि, भार-
तीयज्यौतिषे यवनाचार्याणां प्रासादनिर्माणविद्यायां मया-
सुरादीनां प्रभावे स्पष्टेऽपि एषास्माकमनुदारता न हि सर्वथा
श्लाघनीया | उपरिनिर्दिष्टप्रवृत्तिवशादेव संस्कृतज्ञा अस्मिन्स
मुन्नतिमुखे काले असामयिका गण्यन्ते ।
,
प्रायेण उपरिनिर्दिष्ट कारणवातवशादेव शनै: शनैश्चराया.
वनतिमुखी देववाणी सांप्रतिको खेदावहां दशां वहति । एतन्मू-
लक एव देववाण्याः स्वाभ्युदयकाले विनिर्मितेषु प्राचीनग्रन्थेषु
नूतनग्रन्थेषु च महान् प्रभेद: । केन खलु विदुषा न स्वीक्रियेत
प्रायेण प्रत्येकस्मिन् साहित्यविभागे प्राचीननवीन ग्रन्थयार्भेदः ।
अयमेव खलु प्राचीनाचार्यग्रन्थेषु नवीनग्रन्थेषु च महान भंदा
यत्प्राचीनाचार्यास्तु लोकप्रवृत्तिं लोकप्रगति वस्तुतत्व चाव-
गत्य प्रजाकल्याणकामनयैव प्रेरिताः स्वग्रन्थान् प्रणयन्ति स्म ।
महाभाष्यादिषु पदे पदे लोकव्यवहारचर्चा, चरकादिषु प्रयोग
पूर्वकं वस्तुतस्वपरीक्षणाय प्रोद्बोधनम्, भूतदयामुद्दिश्यैव ग्रन्थ-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७९&oldid=355477" इत्यस्माद् प्रतिप्राप्तम्