पृष्ठम्:Prabandhaprakasha.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७०
प्रबन्धप्रकाशः
वस्तुत: शब्दप्रमाणस्य प्रामाण्यमनुभवपूर्वक परीक्षासह-
कृतमेवेति पूर्वनिर्दिष्टवात्स्यायनवचनेन 'अनुभवेन वस्तुतस्वस्य
कार्येन याथार्थ्यज्ञानवानाप्त: ' इत्याप्तलक्षणेन च
प्रतीयते ।
परं चिरकालादेवैषा स्वयमनुभवेन वस्तुतत्त्वपरीक्षणमुखी
प्रवृत्तिस्तिरोहितेव संस्कृतज्ञेषु इति प्रतीयते । अद्यत्वे तु तस्याः
प्रतिकूला प्रवृत्तिरेव चरमां सीमा यातेति कस्याविदितं भवेत् ।
भवतु नामावश्यकी शब्दैकप्रमाणपरता श्रुत्यादि विहितेषु
पारलौकिकेष्वदृष्टेषु विषयेषु । परन्त्वनुभवगम्येषु प्रायोगिक
परीक्षणस हेषु लौकिकेषु विषयेषु तु सा सर्वथैवातम्या |
अभ्यस्यमान-
वर्तमानकाले संस्कृतपठनपाठनपद्धतेरयमेको महान् देोषो
यत्प्रथमं तु छात्रेषु कस्मिन्नपि विषये स्वाभाविक विशिष्ट
जिज्ञासाबुद्धेरनुदय एव । उदयेऽपि अभ्यस्यमानग्रन्थप्रमाणु-
बलादेव सबलात्कारं तस्या उपशम: क्रियते ।
ग्रन्थोक्ता: पदार्थास्तत्तद्ग्रन्थे यथा प्रतिपादितास्तथैव वस्तुतस्त्र-
ज्ञाननिरपेक्षया ग्राह्यन्ते । व्याकरणे उदाहरणरूपेणान्यथा
समागतानां शब्दानां केऽर्थाः, काव्यादिषूपवर्णितानां तत्त-
पदार्थानां वा वस्तुतो लोके किं स्वरूपम्, पुराणे तिहासादिषु
वर्णितानां पर्वतानां देशानां नद्यादीनां च वस्तुत: कुत्र स्थिति :
कानि च तन्नामानि इदानीन्तने भारतेऽन्येषु वा देशेषु, ज्योतिषे
वा सविस्तरमुपवर्णितानां नक्षत्राणां वस्तुतः खगोले कुत्र कीदृशी
स्थितिरित्यवंविधानां जिज्ञासानामनुदय एवाद्यत्वे संस्कृतज्ञेषु ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७८&oldid=355476" इत्यस्माद् प्रतिप्राप्तम्