पृष्ठम्:Prabandhaprakasha.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:.
१६७
यिकभावनासु प्रतिदिनमुपक्षीयमाणासु, 'जर्मन', 'इटैलियन',
'क' प्रभृतिरूपेगा तत्तद्देशीय मौलिक संस्कृतिभावनासु
पुष्टि नीयमानासु तद्द्वारा च तत्तज्जातिषु संघशक्तिसम्पादन-
पुरःसरं स्वस्वोत्कर्षसाधनतत्परास्वपि एष जातिभ्र शकरोऽसहि-
बताया भावोऽस्मासु कस्य नाम देशहितैषिण प्रार्यधर्मा
भिमानिनो मनस्तापं न तनुते ।
इतिहासविदामतिरोहितं यत्कालक्रमेण तत्तदवस्थावश्यक-
तानुरूपं प्राकृतिक नियमानुसारेण नूतना नूतना: सम्प्रदाया:
सर्वेषु देशेषु प्रवर्तन्ते । परम्परागतमर्यादाया विरोधित्व-
भावना तेषु किश्चित्कालपर्यन्तमेव जनताया जायते ।
किञ्चित्कालातिपाते पुनस्तेषां तस्यामेव मर्यादायामन्तर्भावः
समावेशश्च प्राय: सर्वत्र क्रियते । ततश्च साम्प्रदायिकी
असहिष्णुता सर्वथा अविचारमूला | अत एव तत्त्वविदो
विचारशीला विद्वांसः 'परोक्षप्रिया हि देवा: प्रत्यक्षद्विषः',
"ये तत्र ब्राह्मणा: सम्मर्शिन। युक्ता आयुक्ता लूक्षा धर्मकामा :
स्युः, यथा ते तत्र वर्त्तेरन् तथा तत्र वर्तेथाः" इति श्रुत्यादेश.
मनुसरन्तस्तेषु तेषु सम्प्रदायेषु व्यापिन्या एकस्या भारतीय-
संस्कृत्या भावनयैव भावितचित्ता उदारहृदया: परस्परं
सहिष्णुताभावस्यैव प्रचारं कुर्वन्ति ।
ईश्वरानीश्वरवाद, वेदपै रुषेयत्वापौरुषेयत्ववाद, वाममार्ग,
दक्षिणमार्गादिभेदेन नानारूपाया: शैवशाक्तवैष्णवादिसंप्रदाय -
बहुलाया: सांख्य वेदान्तजैनबौद्धप्रभृतिनैक दर्शन पद्धतीनुसरन्त्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७५&oldid=355473" इत्यस्माद् प्रतिप्राप्तम्