पृष्ठम्:Prabandhaprakasha.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१६६
कारणस्य व्याख्यारूपाणि |
कानिचिद प्रतिपाद्यन्ते ।
तथापि वैशद्यार्थ तान्यपि
भारतीय
मौलिक संस्कृतेरपरिज्ञानम्
आपाततः परस्परं विरुद्धत्वेन प्रतीयमानेष्वपि शैवशाक्त-
वैष्णव जैनबौद्धप्रभृतिषु नानासंप्रदायेषु एकसूत्ररूपेण व्याताया
भारतीय मौलिक संस्कृत्या: संक्षेपेण स्वरूपमुपवर्णितमेव पुर
स्तादस्माभिः । तस्या एतस्या: संस्कृतेरपरिज्ञानमननुभव-
श्चापि एकतमं कारणं देववाण्या: सांप्रतिक्या अवनतेः ।
एतदपरिज्ञानमूलकमेव संस्कृतज्ञेषु तद्द्वारा साधारणजनेषु च
समुपलभ्यमानं परस्परासहिष्णुत्वं परस्परं कलहश्च दृश्यते ।
भारतवर्ष हि खलु सांप्रदायिकासहिष्णुताया जन्मभूमि-
रिवाद्यत्वे प्रतीयते । आर्यधर्मावलम्बिष्वपि पुनरतितरामुप
लभ्यमाना सा कदर्थयति देशहितैषिणां चेतांसि । 'वयमा-
स्तिका यूयं नास्तिका:', 'वयं वैदिका यूयमवैदिका:?,
'अस्माकं सम्प्रदाय: प्राचीनतमो युष्माकं पुनर्नवीन: किच्चि-
त्कालादेव प्रचलितः' इत्येवं परस्परमधिक्षिपन्त: साम्प्रदायिका:
केनन श्रुता भवेयुः । तत्तत्संप्रदायनामोल्लेखपूर्वकं तत्तत्सि-
द्धान्तखण्डनप्रवृत्तानां ग्रन्थानां नामसु 'मुखभङ्गः', 'कर्णमर्दनम्',
'मुखचपेटिका' इत्यादिपदविन्यासोऽपि तादृश्या एवासहिष्णु-
ताया लज्जास्पदं निदर्शनम् ।
वर्तमाने काले तेषु तेषु समुन्नतदेशेषु तत्तत्संकीर्ण साम्प्रदा-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७४&oldid=355472" इत्यस्माद् प्रतिप्राप्तम्