पृष्ठम्:Prabandhaprakasha.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
मासीत् । आसीय समाजस्य राष्ट्रस्य वा सर्वेष्वव्यङ्ग
समाना कल्याणबुद्धि: प्राचीनानामाचार्याणां शिष्टानां
जनताया: पुरीयायिनाम् । अत एव च तत्र तत्र पुराणादिषु-
पठन्द्विजो वागृषभत्वमीयात्
स्यात्क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जन: पण्यफल त्वमीयाजू
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥
( वा० रा० १/१/१०० )
शृण्वन्विप्रो वेदवित्स्यात्क्षत्रियः पृथिवीपतिः ।
ऋद्धिं प्राप्नोति वैश्यश्च शूद्रश्चारोग्यमृच्छति ||
(अग्निपुरा ३८२२३ )
इत्येवं राष्ट्रस्य सर्वेष्वप्यङ्गषु अङ्गाङ्गिभावरूपो घनिष्ठ:
संबन्धोऽत एव चैकस्यापि दुरवस्थयोपेक्षया वा सर्वेषामपि
हानिर्नियतेति च सिद्धान्तानुरूपं सर्वेषामध्यङ्गानां कल्याण-
कामना श्रूयते । अत एव च प्रजाया विभिन्नानामङ्गानामावश्य-
कतानुरूपम् "आन्वीक्षिकी त्रयो वार्त्ता दण्डनीतिश्च शाश्वती”
इत्येव' विद्यानां चातुर्विष्यमाम्नायते ।
“चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति । आगमकालेन
स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेनेति" ( महाभाष्ये),
"आचार्य: सर्वचेष्टासु लोक एब हि धीमतः”, “कृत्स्नो हि
लोको बुद्धिमतामाचार्यः । शत्रुश्चाबुद्धिमताम्” ( चरके ),
"बुद्धिहीना विनश्यन्ति यथा ते मूर्खपण्डिताः ” ( पञ्चतन्त्रे )
76
"

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७२&oldid=355470" इत्यस्माद् प्रतिप्राप्तम्