पृष्ठम्:Prabandhaprakasha.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
१६३
मनुष्येषु नायकत्वपदवीं नेतृत्वपदवीं वासादयन्ति । चक्षुषा-
मित्र नेतृणां शिक्षितानां शिष्टानां वा एतत्कार्यं यत्खलु मार्ग-
प्रदर्शनं जनताया: । एतन्मूलकमेव खलु नयनयेोर्नयनत्वम् ।
पशुषु पुनरन्यथैवैतत् ।
तेषां प्राजिता हि पश्चादंति दण्ड-
साहाय्येनैव च तान यापयति । अत एव प्राचीनकाले
ऋषयो धर्मसंकटेषु प्रजोपप्लवेषु चोपस्थितेषु संभूय विचार्य च
लोकावस्थानुसारत एव कर्तव्यमार्गनिर्धारणं कुर्वन्तिम |
लोकावस्थाया उपेक्षयैव पुन: प्रवर्तमाना: पश्चादृष्टया जनाः
शोकमापद्यन्ते ।
,
ततश्चास्माकं देववाण्याः संस्कृतज्ञानां वा विदुषां चिरादेव
क्रमशो ह्रासमुपगच्छन्त्या अवस्थाया वास्तविकं मूलकारणं
लोकप्रगतेर्लोकावस्थितेश्च अथवा प्रजाया: सामान्यजीवनस्यो-
पेचैव ततस्तेषां पार्थक्य च । लोकस्य लोकयात्रायाश्व
प्रात्यहि कीनामावश्यकतानामुपे ३यै वास्माकं जीवनोपयोगि
नीनां विद्यानां कलानां च नानाविधानां तिरोभाव:
समजनि । लोकप्रगतरुपे क्षणेन सर्वैरुपेक्षिता इव शनै: शनै:
संस्कृतज्ञा दृश्यन्ते । जनताया नेतृत्वं च शनैः शनैस्तेषां
हस्तात्प्रस्खलितमित्र प्रतिभाति ।
स्वाभ्युदयकाले पुनर्देववाण्या वाङ्मयस्य जीवनयात्राया
विभिन्न विभागानामानुरूप्येणैव नैके विभागा विभिन्ना:
शाखाश्चावर्तन्त । सभ्य समाजस्य प्रत्येकावश्यकतानुसारमंत्र
तास्ता विद्या: कलाश्च समुद्दिश्य संस्कृतवाङ्मयं तदा प्रवृत्त-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७१&oldid=355469" इत्यस्माद् प्रतिप्राप्तम्